स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित्
इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम्
अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः
विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः
प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान्
साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः अट्टहासेन घोरेण व्यष्टं भयदनिंदितः
तथा शतमखस्यापि सवज्रो दक्षिणः करः सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत्
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः अलसानामिवारंभास्तादृशाः प्रतियांत्युत
एवं भगवता तेन व्याहताशेषवैभवात् अमराः समरे तस्य पुरतः स्थातुमक्षमाः
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान्
बहवस्तस्य वीरस्य बाहवः परिघोपमाः शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः
अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ विसृजन्सर्वभूतानि यथादौ विश्वसंभवः
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः
खमंडले गणेन्द्रस्य शराः कनकभूषिताः उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः
महांतस्ते सुरगणान् मंडूकानिवडुंडुभाः प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम्
निकृत्तबाहवः केचित्केचिल्लूनवराननाः पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः
अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे
अपरे जग्मुराकाशं परे च विविशुर्जलम् तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ
परिग्रस्तप्रजावर्गो भगवानिव भैरवः दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत्
एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् गणेश्वरसमुत्पन्नं कृपणं वपुराददे
तदा त्रिदशवीराणामसृक्सलिलवाहिनी प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी
रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी
तस्मिन्महति संवृत्ते समरे भृशदारुणे भयेनेव परित्रस्ता प्रचचाल वसुन्धरा
महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः सद्य एव शिरश्छेदस्साधु संपद्यते फलम्
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम्