रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम्
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः आरुरोह रथं दिव्यमनुगृह्य पितामहम्
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् श्रुत्वा भयेन देवानां जज्वाल जठरानलः
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः क्षणेन निबडीभूताः साकाशविवरा दिशाः
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः महता बाणवर्षेण तुतोद गणगोवृषम्
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक्
समादाय च तद्दिव्यं धनुस्समरभैरवम् शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः तेन स्वनेन महता पृथिवीं समकंपयत्
ततः शरवरं घोरं दीप्तमाशीविषोपमम् जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः
बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः महाभुजंगसंदष्टो यथा बालभुजङ्गमः
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम्
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा विव्याध गणराजस्य भुजे भुजगसन्निभे
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् विससर्ज शरं वेगाद्वीरभद्रो महाबलः
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः
तयोः परस्परं वेगाच्छरानाशु विमुंचतोः द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम्
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् हाहाकारो महानासीदाकाशे खेचरेरितः
ततस्त्वनलतुंडेन शरेणादित्यवर्चसा विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि
स तु तीव्रप्रपातेन शरेण दृढमाहतः महतीं रुजमासाद्य निपपात विमोहितः
पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत्
स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः सहसा वारयामास घोरैः प्रतिशरैः शरान्
ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु
अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः
निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान्
शंखचक्रगदाहस्तान् विससर्ज सहस्रशः सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः
निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः
तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम्