महाभयस्खलत्पादं वेपन्तं विगतत्विषम् मृगरूपेण धावन्तं विशिरस्कं तदाकरोत्
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः
तमुवाह महावेगात्स्कन्धेन नतसंधिना सर्वेषां वयसां राजा गरुडः पन्नगाशनः
देवाश्च हतशिष्टा ये देवराजपुरोगमाः प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः
तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः
स तं रथवरं ब्रह्मा शासनादेव शूलिनः हरेस्समीपमानीय कृताञ्जलिरभाषत
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः
रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम्
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः आरुरोह रथं दिव्यमनुगृह्य पितामहम्
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् श्रुत्वा भयेन देवानां जज्वाल जठरानलः
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः क्षणेन निबडीभूताः साकाशविवरा दिशाः
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः महता बाणवर्षेण तुतोद गणगोवृषम्
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक्
समादाय च तद्दिव्यं धनुस्समरभैरवम् शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः तेन स्वनेन महता पृथिवीं समकंपयत्
ततः शरवरं घोरं दीप्तमाशीविषोपमम् जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः
बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः महाभुजंगसंदष्टो यथा बालभुजङ्गमः
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम्
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा विव्याध गणराजस्य भुजे भुजगसन्निभे
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् विससर्ज शरं वेगाद्वीरभद्रो महाबलः
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः
तयोः परस्परं वेगाच्छरानाशु विमुंचतोः द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम्
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् हाहाकारो महानासीदाकाशे खेचरेरितः