धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः यथा कलियुगे जारैर्बलेन कुलयोषितः
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम्
उत्पाटितसुरानीकं हन्यमानं तपोधनम् प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम्
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम्
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः
हतेषु तेषु देवेषु पतितेषुः सहस्रशः प्रविवेश गणेशानः क्षणादाहवनीयकम्
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः
स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान्
आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम्
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् मृगरूपेण धावन्तं विशिरस्कं तदाकरोत्
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः
तमुवाह महावेगात्स्कन्धेन नतसंधिना सर्वेषां वयसां राजा गरुडः पन्नगाशनः
देवाश्च हतशिष्टा ये देवराजपुरोगमाः प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः
तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः
स तं रथवरं ब्रह्मा शासनादेव शूलिनः हरेस्समीपमानीय कृताञ्जलिरभाषत
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः
रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम्
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः आरुरोह रथं दिव्यमनुगृह्य पितामहम्
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् श्रुत्वा भयेन देवानां जज्वाल जठरानलः
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः क्षणेन निबडीभूताः साकाशविवरा दिशाः
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः महता बाणवर्षेण तुतोद गणगोवृषम्
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक्
समादाय च तद्दिव्यं धनुस्समरभैरवम् शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः तेन स्वनेन महता पृथिवीं समकंपयत्