स वै गृहीत्वैककरेण केशं तत्पञ्चमं दृप्तमसत्यभाषणम् छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः
पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे
तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम्
त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पञ्चाननमीशचिह्नम् तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै
इत्यर्थितो ऽच्युतेनेशस्तुष्टः सुरगणांगणे निवर्तयामास तदा भैरवं ब्रह्मदंडतः
अथाह देवः कितवं विधिं विगतकंधरम् ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम्
नमस्तुभ्यं भगवते बंधवे विश्वयोनये सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने
अराजभयमेतद्वै जगत्सर्वं न शिष्यति ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो
वरं ददामि ते तत्र गृहाण दुर्लभं परम् वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः
निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः अथाह देवः कितवं केतकं कूटसाक्षिणम्
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम्
इत्युक्ते तत्र देवेन केतकं देवजातयः सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया सफलं क्रियतां तात क्षम्यतां मम किल्बिषम्
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत्
तथा स्तुतस्तु भगवान्केतकेन सभातले न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः
मदीयास्त्वां धरिष्यंइ जन्म ते सफलं ततः त्वं वै वितानव्याजेन ममोपरि भविष्यसि
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ विरराज सभामध्ये सर्वदेवैरभिष्टुतः
तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ
तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः
पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् हारनूपुरकेयूरकिरीटमणिकुंडलैः
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः
धूपदीपसितच्छत्रव्यजनध्वजचामरैः अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः
पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे
तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम्
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः तुष्टो ऽहमद्य वां वत्सौ पूजया ऽस्मिन्महादिने
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया
एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान्
शिवरात्रावहोरात्रं निराहारो जितेंद्रियः अर्चयेद्वा यथान्यायं यथाबलमवंचकः