चिच्छेद च कुठारेण बाहुदंडं विभावसोः अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् चकर्त करजाग्रेण वामं च स्तनचूचुकम्
भगस्य विपुले नेत्रे शतपत्रसमप्रभे प्रसह्योत्पाटयामास भद्रः परमवेगवान्
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव जघान धनुषः कोट्या स तेनास्पष्टवागभूत्
ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया क्षणं कृमिवदाक्रम्य घर्षयामास भूतले
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत्
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् सा देवी कंडुकक्रीडां चकार समरांगणे
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः
अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः
धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः यथा कलियुगे जारैर्बलेन कुलयोषितः
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम्
उत्पाटितसुरानीकं हन्यमानं तपोधनम् प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम्
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम्
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः
हतेषु तेषु देवेषु पतितेषुः सहस्रशः प्रविवेश गणेशानः क्षणादाहवनीयकम्
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः
स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान्
आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम्
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् मृगरूपेण धावन्तं विशिरस्कं तदाकरोत्
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः
तमुवाह महावेगात्स्कन्धेन नतसंधिना सर्वेषां वयसां राजा गरुडः पन्नगाशनः
देवाश्च हतशिष्टा ये देवराजपुरोगमाः प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः
तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः
स तं रथवरं ब्रह्मा शासनादेव शूलिनः हरेस्समीपमानीय कृताञ्जलिरभाषत
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः