आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः
उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः
उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम्
हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः
निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः
ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन्
अमरानपि दुद्राव द्विरदानिव केसरी तानभिद्रवतस्तस्य गमनं सुमनोहरम्
वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ततस्तत्क्षोभयामास महत्सुरबलं बली
महासरोवरं यद्वन्मत्तो वारणयूथपः विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान्
विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम्
व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः तत्र तत्र महावेगाच्चरंतं शूलधारिणम्
तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता
मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः
प्रभयेव युगांताग्निश्चलया धूमधूम्रया भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ
कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः
भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी
रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम्
निर्बिभेद रणे वीरो लीलयैव गणेश्वरः सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः
ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् चिच्छेद करजाग्रेण देवमातुस्तथैव च
चिच्छेद च कुठारेण बाहुदंडं विभावसोः अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् चकर्त करजाग्रेण वामं च स्तनचूचुकम्
भगस्य विपुले नेत्रे शतपत्रसमप्रभे प्रसह्योत्पाटयामास भद्रः परमवेगवान्
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव जघान धनुषः कोट्या स तेनास्पष्टवागभूत्
ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया क्षणं कृमिवदाक्रम्य घर्षयामास भूतले
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत्
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् सा देवी कंडुकक्रीडां चकार समरांगणे
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः
अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः