पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः
अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया
तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः
स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम्
अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः कथ्यतां कारणं तत्र युध्यतां वा मयामरैः
इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः येन प्रथमभागार्हं न यजध्वं महेश्वरम्
मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः
यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम्
अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः
यस्मादस्मिन् मखे देवैरित्थं वयमसत्कृताः तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम्
इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना यक्षवाटं महाकूटं यथातिस्रः पुरो हरः
ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः
यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः
तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च रसवन्ति च पानानि लेह्यचोष्याणि तानि वै
वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः
मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान्
बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति
हरस्व प्रहरस्वेति पाटयोत्पाटयेति च संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः
यत्रतत्र गणेशानां जज्ञिरे समरोचिताः विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः
आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च
कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः
रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः
चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित्
नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन
केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः