तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः बभार मौक्तिकं छत्रं गृहीतसितचामरः
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः
सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना बालसोमेन सौम्येन यथा शूलवरायुधः
दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् भानुकंपो महातेजा हेमरत्नैरलंकृतः
देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः
फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः मार्गानुकूलसंवाहा वबुश्च पथि मारुताः
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः
तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह
तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् प्रविवेश महाबाहुर्वीरभद्रो महानुगः
ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम्
सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम्
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम्
देवांगनासहस्राढ्यमप्सरोगणसेवितम् वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम्
दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् सिंहनादं तदा चक्रे गंभीरो जलदो यथा
ततः किलकिलाशब्द आकाशं पूरयन्निव गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः
तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः
किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम्
मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात्
पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः
अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया
तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः
स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम्
अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः कथ्यतां कारणं तत्र युध्यतां वा मयामरैः
इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः येन प्रथमभागार्हं न यजध्वं महेश्वरम्