स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके
हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् षोडशैरुपचारैश्च पूजयामास तं विधिम्
विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम्
आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या
वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः
इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च
इति देवः पुरा प्रीतः सत्येन हरये परम् ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति
ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम् भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया
स वै तदा तत्र पतिं प्रणम्य शिवमंगणे किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो
वत्सयो ऽयं विधिः साक्षाज्जगतामाद्यदैवतम् नूनमर्चय खड्गं स्वं तिग्मेन जवसा परम्
स वै गृहीत्वैककरेण केशं तत्पञ्चमं दृप्तमसत्यभाषणम् छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः
पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे
तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम्
त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पञ्चाननमीशचिह्नम् तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै
इत्यर्थितो ऽच्युतेनेशस्तुष्टः सुरगणांगणे निवर्तयामास तदा भैरवं ब्रह्मदंडतः
अथाह देवः कितवं विधिं विगतकंधरम् ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम्
नमस्तुभ्यं भगवते बंधवे विश्वयोनये सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने
अराजभयमेतद्वै जगत्सर्वं न शिष्यति ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो
वरं ददामि ते तत्र गृहाण दुर्लभं परम् वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः
निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः अथाह देवः कितवं केतकं कूटसाक्षिणम्
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम्
इत्युक्ते तत्र देवेन केतकं देवजातयः सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया सफलं क्रियतां तात क्षम्यतां मम किल्बिषम्
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत्
तथा स्तुतस्तु भगवान्केतकेन सभातले न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः
मदीयास्त्वां धरिष्यंइ जन्म ते सफलं ततः त्वं वै वितानव्याजेन ममोपरि भविष्यसि
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ विरराज सभामध्ये सर्वदेवैरभिष्टुतः
तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ
तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः