कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम्
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम्
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् वरामरशिरोमालावलीकलितशेखरम्
रणन्नूपुरकेयूरमहाकनकभूषितम् रत्नसंचयसंदीप्तं तारहारावृतोरसम्
महाशरभशार्दूलसिंहैः सदृशविक्रमम् प्रशस्तमत्तमातंगसमानगमनालसम्
शंखचामरकुंदेन्दुमृणालसदृशप्रभम् सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम्
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् तेजसा चैव दीव्यंतं युगांत इव पावकम्
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् भद्रया सहितं प्राह भद्रमस्त्विति शंकरः
स च विज्ञापयामास सह देव्या महेश्वरम् आज्ञापय महादेव किं कार्यं करवाण्यहम्
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया वीरभद्रं महाबाहुं वाचा विपुलनादया
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर
अहमप्यनया सार्धं रैभ्याश्रमसपीपतः स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम्
वृक्षा कनखले ये तु गंगाद्वारसमीपगाः सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः
तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम्
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम्
आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा सस्मिता वचनं प्राह मधुरं मधुरं स्वयम्
वत्स भद्र महाभाग महाबलपराक्रम मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक
यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया यजमानं च तं हत्वा वत्स हिंसय भद्रया
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः
ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान्
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात्
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः संछादितमभूत्सर्वं साकाशविवरं जगत्
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः
शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः
निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः विनेदुश्च महानादाञ्जलदा इव भद्रजाः
तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ कालानलशतैर्युक्तो यथांते कालभैरवः