आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् दधीचो मन्युनाविष्टो दक्षमेवमभाषत
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने नरः पापमवाप्नोति महद्वै नात्र संशयः
असतां संमतिर्यत्र सतामवमतिस्तथा दंडो देवकृतस्तत्र सद्यः पतति दारुणः
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम्
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम्
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः
प्रकृतीनां परश्चैव पुरुषस्य च यः परः चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् अनादिमध्यनिधनमप्रतर्क्यं सनातनम्
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम्
निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः अवश्यमनुभावित्वादनर्थस्य तु भाविनः
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत्
देव्या संचोदितो देवो दक्षाध्वरजिघांसया ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम्
सहस्रवदनं देवं सहस्रकमलेक्षणम् सहस्रमुद्गरधरं सहस्रशरपाणिकम्
शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम्
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम्
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम्
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् वरामरशिरोमालावलीकलितशेखरम्
रणन्नूपुरकेयूरमहाकनकभूषितम् रत्नसंचयसंदीप्तं तारहारावृतोरसम्
महाशरभशार्दूलसिंहैः सदृशविक्रमम् प्रशस्तमत्तमातंगसमानगमनालसम्
शंखचामरकुंदेन्दुमृणालसदृशप्रभम् सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम्
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् तेजसा चैव दीव्यंतं युगांत इव पावकम्
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् भद्रया सहितं प्राह भद्रमस्त्विति शंकरः