त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय
इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम्
स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया
यदा गता सती दक्षं विनिंद्य भयविह्वला तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान्
यस्मादवमता दक्षमत्कृते ऽनागसा सती पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह
वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम्
भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम्
तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः महेशः कृतवान्विघ्नं मना ववस्वते सति
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम्
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् पितृभावमुपागम्य मुदिते हिमवद्गिरौ
देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये संकीडति तया सार्धं काले बहुतरे गते
वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते
तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः गमनाय समागम्य बुद्धिमापेदिरे तदा
आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् दधीचो मन्युनाविष्टो दक्षमेवमभाषत
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने नरः पापमवाप्नोति महद्वै नात्र संशयः
असतां संमतिर्यत्र सतामवमतिस्तथा दंडो देवकृतस्तत्र सद्यः पतति दारुणः
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम्
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम्
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः
प्रकृतीनां परश्चैव पुरुषस्य च यः परः चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः