मृदंगतालगीतादिवेणुवीणाविशारदैः विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम्
आरुरोह महादेवी सह प्रियसखीजनैः चामारव्यञ्जनं तस्या वज्रदंडमनोहरे
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे तदाचामरयोर्मध्ये देव्या वदनमाबभौ
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि
उपर्यमृतभांडस्य मंडलं शशिनो यथा अथ चाग्रे समासीना सुस्मितास्या शुभावती
अक्षद्यूतविनोदेन रमयामास वै सतीम् सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम्
अपरा तालवृन्तं च परा तांबूलपेटिकाम् काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च काचिदाभरणाधारं बभार कमलेक्षणा
काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः
आवृत्त्या तां महादेवीमसेवंत समंततः अतीव शुशुभे तासामंतरे परमेश्वरी
तारापरिषदो मध्ये चंद्रलेखेव शारदी ततः शंखसमुत्थस्य नादस्य समनंतरम्
प्रास्थानिको महानादः पटहः समताड्यत ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः
अनाहतानि सन्नेदुः काहलानां शतानि च सायुधानां गणेशानां महेशसमतेजसाम्
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः
जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः
तदा देवगणैश्चान्यैः पथि सर्वत्र संगता क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम्
तदा शशिमुखी देवी पितरं सदसि स्थितम् अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः
ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः स देवस्सांप्रतं तात विधिना नार्चितः किल
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् असत्कृतामवज्ञाय कृतवानसि गर्हितम्
एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम
तासां तु ये च भर्तारस्ते मे बहुमता मुदा गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि
स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः
अकस्मान्मम भर्तारमजाताशेषदूषणम् वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम्
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् सहसा दारुणो दंडस्तव दैवाद्भविष्यति