तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत
ततस्तेनैव वैरेण विधिना च प्रचोदितः नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन्
शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक्
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम्
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम्
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम्
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम्
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः
मृदंगतालगीतादिवेणुवीणाविशारदैः विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम्
आरुरोह महादेवी सह प्रियसखीजनैः चामारव्यञ्जनं तस्या वज्रदंडमनोहरे
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे तदाचामरयोर्मध्ये देव्या वदनमाबभौ
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि
उपर्यमृतभांडस्य मंडलं शशिनो यथा अथ चाग्रे समासीना सुस्मितास्या शुभावती
अक्षद्यूतविनोदेन रमयामास वै सतीम् सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम्
अपरा तालवृन्तं च परा तांबूलपेटिकाम् काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च काचिदाभरणाधारं बभार कमलेक्षणा
काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः
आवृत्त्या तां महादेवीमसेवंत समंततः अतीव शुशुभे तासामंतरे परमेश्वरी
तारापरिषदो मध्ये चंद्रलेखेव शारदी ततः शंखसमुत्थस्य नादस्य समनंतरम्
प्रास्थानिको महानादः पटहः समताड्यत ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः
अनाहतानि सन्नेदुः काहलानां शतानि च सायुधानां गणेशानां महेशसमतेजसाम्
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः
जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः
तदा देवगणैश्चान्यैः पथि सर्वत्र संगता क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम्