किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम्
प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् कथं हिमवतः पुत्री मेनायामभवत्पुरा
कथं च निन्दितो रुद्रो दक्षेण च महात्मना निमित्तमपि किं तत्र येन स्यान्निंदितो भवः
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत
शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम्
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः
तदा देवश्च देवी च दिव्यासनगतावुभौ दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम्
तदात्मगौरवाद्देवो देव्या दक्षे समागते देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत
ततस्तेनैव वैरेण विधिना च प्रचोदितः नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन्
शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक्
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम्
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम्
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम्
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम्
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः
मृदंगतालगीतादिवेणुवीणाविशारदैः विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम्
आरुरोह महादेवी सह प्रियसखीजनैः चामारव्यञ्जनं तस्या वज्रदंडमनोहरे
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे तदाचामरयोर्मध्ये देव्या वदनमाबभौ
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि
उपर्यमृतभांडस्य मंडलं शशिनो यथा अथ चाग्रे समासीना सुस्मितास्या शुभावती
अक्षद्यूतविनोदेन रमयामास वै सतीम् सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम्
अपरा तालवृन्तं च परा तांबूलपेटिकाम् काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च काचिदाभरणाधारं बभार कमलेक्षणा