आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः
सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः
येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः
इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात्
वर्णिता वै मया वंशा दिव्या देवगणान्विताः क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः
प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ
इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः
अन्ये च राजऋषयो नानावीर्यसमन्विता किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः
किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम्
प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् कथं हिमवतः पुत्री मेनायामभवत्पुरा
कथं च निन्दितो रुद्रो दक्षेण च महात्मना निमित्तमपि किं तत्र येन स्यान्निंदितो भवः
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत
शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम्
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः
तदा देवश्च देवी च दिव्यासनगतावुभौ दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम्
तदात्मगौरवाद्देवो देव्या दक्षे समागते देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत
ततस्तेनैव वैरेण विधिना च प्रचोदितः नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन्
शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक्
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम्
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम्
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम्
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम्
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः