रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च
इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः
यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः
पावकः पवमानश्च शुचिरित्येष ते त्रयः निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः
सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः
त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा
सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित्
तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम्
नातिविस्तरतो विप्राः पित्ःन्वक्ष्याम्यतः परम् यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम्
ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा
तस्मादेते पितर आर्तवा इति च श्रुतम् एवं पित्ःणामेतेषामृतुकालाभिमानिनाम्
आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः
अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते
मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता
मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम्
मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम्
स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः
सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः वेलां च नियतिं चैव तृतीयामपि चायतिम्
आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः
सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः
येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः
इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात्
वर्णिता वै मया वंशा दिव्या देवगणान्विताः क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः
प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ
इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः
अन्ये च राजऋषयो नानावीर्यसमन्विता किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः