सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् भर्तारं दीप्तयशसं मनुमेवान्वपद्यत
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता
स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः रुचेः प्रजापतिश्चैव चाकूतिं समपादयत्
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत्
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः
ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा
ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ
निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः
स एष तामसस्सर्गो जज्ञे धर्मनियामकः या सा दक्षस्य दुहिता रुद्रस्य दयिता सती
भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान्
यथासृजदसंख्यातांस्तथा कथितमेव च भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया
देवौ धातृविधातारौ मन्वंतरविधारिणौ तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः
स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः मरीचेरपि संभूतिः पौर्णमासमसूयत
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः
स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम्
तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽंतरे
तत्संततीया बहवः पौलस्त्या इति विश्रुताः क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः
कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः
क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः
षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः अनूरोरग्रतो यांति परिवार्य दिवाकरम्
अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत कन्यकां च श्रुतिं नाम माता शंखपदस्य च
सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः
तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः
ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा