शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम्
विवेश देहं देवस्य देवश्चांतरधीयत तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः
प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः
एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः
य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान्
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः
स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् यार्धेन नारी सा तस्माच्छतरूपा व्यजायत
विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् भर्तारं दीप्तयशसं मनुमेवान्वपद्यत
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता
स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः रुचेः प्रजापतिश्चैव चाकूतिं समपादयत्
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत्
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः
ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा
ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ
निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः
स एष तामसस्सर्गो जज्ञे धर्मनियामकः या सा दक्षस्य दुहिता रुद्रस्य दयिता सती
भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान्
यथासृजदसंख्यातांस्तथा कथितमेव च भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया
देवौ धातृविधातारौ मन्वंतरविधारिणौ तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः
स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः मरीचेरपि संभूतिः पौर्णमासमसूयत
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः