न यस्या परमो भावः सुराणामपि गोचरः विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः
तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम्
परमां निखिलं भासा भासयन्तीमिदं जगत् प्रणिपत्य महादेवीं प्रार्थयामास वै विराट्
देवि देवेन सृष्टो ऽहमादौ सर्वजगन्मयि प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत्
मनसा निर्मिताः सर्वे देवि देवादयो मया न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम्
त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे
दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम्
विवेश देहं देवस्य देवश्चांतरधीयत तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः
प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः
एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः
य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान्
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः
स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् यार्धेन नारी सा तस्माच्छतरूपा व्यजायत
विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् भर्तारं दीप्तयशसं मनुमेवान्वपद्यत
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता
स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः रुचेः प्रजापतिश्चैव चाकूतिं समपादयत्
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत्
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः
ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा