जय प्रकृति कल्याणि जय प्रकृतिनायिके जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि
जयामोघमहामाय जयामोघ मनोरथ जयामोघमहालील जयामोघमहाबल
जय विश्वजगन्मातर्जय विश्वजगन्मये जय विश्वजगद्धात्रि जय विश्वजगत्सखि
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय जय शाश्वतिकाकार जय शाश्वतिकानुग
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके
जयावलोकनायत्तजगत्कारणबृंहण जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक
जयोपाश्रितसंरक्षासंविधानपटीयसि जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण जय विश्वबहिर्भूत निरस्तपरवैभव
जय प्रणीतपञ्चार्थप्रयोगपरमामृत जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि
जयति घोरसंसारमहारोगभिषग्वर जयानादिमलाज्ञानतमःपटलचंद्रिके
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक जय प्रचुरदिव्यांग जय प्रार्थितदायिनि
क्व देव ते परं धाम क्व च तुच्छं च नो वचः तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम्
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम्
य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात्
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम्
अथ देवो महादेवो महाजलदनादया वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया
अर्थसंपन्नपदया राजलक्षणयुक्तया अशेषविषयारंभरक्षाविमलदक्षया
मनोहरतरोदारमधुरस्मितपूर्वया संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः
वत्स वत्स महाभाग मम पुत्र पितामह ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम्
प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना तपसा ऽनेन तुष्टोस्मि ददामि च तवेप्सितम्
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ससर्ज वपुषो भागाद्देवीं देववरो हरः
यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् परस्य परमां शक्तिं भवस्य परमात्मनः
यस्यां न खलु विद्यंते जन्म मृत्युजरादयः या भवानी भवस्यांगात्समाविरभवत्किल
यस्या वाचो निवर्तन्ते मनसा चेंद्रियैः सह सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत
या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति शरीरिणीव स देवी विचित्रं समलक्ष्यत
सर्वं जगदिदं चैषा संमोहयति मायया ईश्वरात्सैव जाताभूदजाता परमार्थतः