इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम्
यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् तेन मैथुनजां सृष्टिं न शशाक पितामहः
ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर
प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे
तदाद्या परमा शक्तिरनंता लोकभाविनी आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा
तया परमया शक्त्या भगवंतं त्रियम्बकम् संचिन्त्य हृदये ब्रह्मा तताप परमं तपः
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः अचिरेणैव कालेन पिता संप्रतुतोष ह
ततः केनचिदंशेन मूर्तिमाविश्य कामपि अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् सर्वलोकविधायिन्या शक्त्या परमया युतम्
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् अचलं निर्गुणं शांतमनंतमहिमास्पदम्
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम्
प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः
जय देव महादेव जयेश्वर महेश्वर जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप
जय प्रकृति कल्याणि जय प्रकृतिनायिके जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि
जयामोघमहामाय जयामोघ मनोरथ जयामोघमहालील जयामोघमहाबल
जय विश्वजगन्मातर्जय विश्वजगन्मये जय विश्वजगद्धात्रि जय विश्वजगत्सखि
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय जय शाश्वतिकाकार जय शाश्वतिकानुग
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके
जयावलोकनायत्तजगत्कारणबृंहण जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक
जयोपाश्रितसंरक्षासंविधानपटीयसि जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण जय विश्वबहिर्भूत निरस्तपरवैभव