लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम्
क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते
अनंतभोगशय्यायां शयानं पंकजेक्षणम् चतुर्भुजमुदारांगं सर्वाभरणभूषितम्
शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम्
धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् क्षीरार्णवामृतमिव शयानं योगनिद्रया
तमसा कालरुद्राख्यं रजसा कनकांडजम् सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम्
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् उदैक्षत महाबाहुस्स्मितमीषच्चकार च
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् प्रणेमतुश्च बहुशो बहुमानेन दूरतः
भवोपि भगवानेतावनुगृह्य पिनाकधृक् सादरं पश्यतोरेव तयोरंतरधीयत
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः
निर्दिष्टः पममेशेन महेशो नीललोहितः पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः
स एव भगवानीशस्तेजोराशिरनामयः अनादिनिधनोधाता भूतसंकोचको विभुः
परमैश्वर्यसंयुक्तः परमेश्वरभावितः तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः भुजंगहारकेयूरवलयो मुंजमेखलः
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः
महावृषभनिर्याणो महाजलदनिःस्वनः महानलसमप्रख्यो महाबलपराक्रमः
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः
कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान्
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः