यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः
स कथं भगवान् रुद्र आदिदेवः पुरातनः पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम
कथं पुनरशेषाणां भूतानां हेतुभूतयोः गुणप्रधानभावेन प्रादुर्भावः परस्परात्
नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन भगवच्छिष्यभूतेन भवता सकलं स्मृतम्
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः इदमेव पुरा पृष्टो मम प्राह पितामहः
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम्
त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः
पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा
तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः तपसा तोषयित्वा स्वं पितरं परमेश्वरम्
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत्
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः
नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः
परस्परेण जायंते परस्परहितैषिणः तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम्
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः पुरा नारायणो नाम कल्पे वै मेघवाहने
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः
सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः एवं विज्ञापयामास तपसा प्राप्य शंकरम्
भगवन् देवदेवेश विश्वेश्वर महेश्वर तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम्
मया सह जगत्सर्वं तथाप्यसृजदच्युतः स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया
मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि तथा ममापि तत्सर्वं दातुमर्हसि शंकर
इति विज्ञापितस्तेन भगवान् भगनेत्रहा न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः