सव्योत्तरेतरपदं तदर्हितकरां बुजम् स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम्
वीज्यमानं विशोषजैः स्त्रीजनैस्तीव्रभावनैः शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम्
दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः
तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः अथ संह्लादयन्देवान्देवो देवशिखामणिः अवोचदर्थगंभीरं वचनं मधुमंगलम्
वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् जगच्च देवतावंशः स्वस्वकर्मणि किं नवा
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः भवतामभितापेन पौनरुक्त्येन भाषितम्
इति सस्मितया माध्व्या कुमारपरिभाषया समतोषयदंबायाः स पतिस्तत्सुरव्रजम्
अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः आज्ञापयद्गणेशानां शतं तत्रैव संसदि
ततो वाद्यं बहुविधं प्रयाणाय परेशितुः गणेश्वराश्च संनद्धा नानावाहनभूषणाः
प्रणवाकारमाद्यंतं पञ्चमंडलमंडितम् आरुरोह रथं भद्रमंबिकापतिरीश्वरः ससूनुगणमिंद्राद्याः सर्वेप्यनुययुः सुराः
संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः
समीक्ष्यं तु तयोर्युद्धं निगूढो ऽभ्रं समास्थितः समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः
अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् माहेश्वरेण चा ऽस्त्रेण तथा पाशुपतेन च
अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम्
महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः
ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे निपतेतुः क्षणे नैव ह्याविर्भूते महानले
दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् किमेतदद्भुताकारमित्यूचुश्च परस्परम्
अतींद्रियमिदं स्तंभमग्निरूपं किमुत्थितम् अस्योर्ध्वमपि चाधश्चावयोर्लक्ष्यमेव हि
इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम्
आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान्
तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः
ना ऽपि श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः श्रांतः स सूकरहरीः प्राप पूर्वं रणांगणम्
अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम्
अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः
परिहासं तु कृतवान्कंपनाच्चलितं शिरः तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम्
किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम् आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम्
न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः
इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम् मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ
स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः असत्यमपि शस्तं स्यादापदीत्यनुशासनम्
समीक्ष्य तत्रा ऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततो ऽच्युतम्