अथ देवासुरपित्ःन् मनुष्यांश्च चतुष्टयम् सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः
स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः
जघनादसुरान् सर्वान् प्रजनादपि मानुषान् अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे
पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे
वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे
पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान् मृगान्
औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम्
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् सामानि जगतीछंदः स्तोमं सप्तदशं तथा
वैरूप्यमतिरात्रं च पश्चिमादसृजन् मुखात् एकविंशमथर्वाणमाप्तोर्यामाणमेव च
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे
यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः नरकिन्नररक्षांसि वयःपशुमृगोरगाः
अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे
तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु
विनियोगं च भूतानां धातैव व्यदधत्स्वयम् नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम्
वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः
शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः यथर्तावृतुलिंगानि नानारूपाणि पर्यये
दृश्यंते तानि तान्येव तथा भावा युगादिषु इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः
महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः
नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा
तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः
बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः महाभूतप्रमाणश्च विशेषामलपल्लवः
धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः
द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता
वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः
भवता कथिता सृष्टिर्भवस्य परमात्मनः चतुर्मुखमुखात्तस्य संशयो नः प्रजायते
देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् यः संहरति संक्रुद्धो युगांते समुपस्थिते
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ