स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः तस्यैवं तप्यमानस्य न किंचित्समवर्तत
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत
तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात्
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ते तेनोक्ता महात्मानो दशधा चैकधा कृताः
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः
रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः
माभैर्माभैर्महाभाग विरिंच जगतां गुरो मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः
तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि
एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम्
नमस्ते भगवन् रुद्र भास्करामिततेजसे नमो भवाय देवाय रसायाम्बुमयात्मने शर्वाय क्षितिरूपाय नन्दीसुरभये नमः
ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने पशूनां पतये चैव पावकायातितेजसे भीमाय व्योमरूपाय शब्दमात्राय ते नमः
उग्रायोग्रस्वरूपाय यजमानात्मने नमः महादेवाय सोमाय नमोस्त्वमृतमूर्तये
एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया
भगवन् भूतभव्येश मम पुत्र महेश्वर सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः
तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः
तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः
ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः
मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च
इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः सह रुद्रेण संभूताः पुराणा गृहमेधिनः
तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः