विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः
इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः
ततो ऽर्वाक् स्रोतसां सर्गः सप्तमः स तु मानुषः अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः
प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम्
ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः
इश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु
स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः तस्यैवं तप्यमानस्य न किंचित्समवर्तत
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत
तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात्
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ते तेनोक्ता महात्मानो दशधा चैकधा कृताः
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः
रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः
माभैर्माभैर्महाभाग विरिंच जगतां गुरो मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः
तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि
एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम्
नमस्ते भगवन् रुद्र भास्करामिततेजसे नमो भवाय देवाय रसायाम्बुमयात्मने शर्वाय क्षितिरूपाय नन्दीसुरभये नमः