मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम्
आस्थाय विपुलं रूपं वाराहममितं विधिः पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्
स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः लिंगाकृतेर्महेशस्य पादमूलं गतो यथा
ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात्
तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन्
वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः
ततः संस्थानमानीय वराहो महतीं महीम् स्वमेव रूपमास्थाय स्थापयामास वै विभुः
पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत्
इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः
पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः सर्वतस्तमसातीव बीजकुम्भवदावृतः
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः तं दृष्ट्वा ऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम्
अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत
अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः
ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः
प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः
विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः
इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः
ततो ऽर्वाक् स्रोतसां सर्गः सप्तमः स तु मानुषः अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः
प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम्
ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः
इश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु