प्रजापालनसद्धर्मविहीना भोगतत्पराः प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः
कामिनीजारभावेषु सुरता मलिनाशयाः लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः
तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः
शीलिग्रामशिलादीनां पूजकाहोमतत्पराः प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः
धनवंतः कुकर्माणो विद्यावन्तो विवादिनः आख्यायोपासना धर्मवक्तारो धर्मलोपकाः
सुभूपाकृतयो दंभाः सुदातारो महामदाः विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम्
स्वधर्मरहिता मूडाः संकराः क्रूरबुद्धयः महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः
सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः श्वशुरद्रोहकारिण्यो निर्भया मलिनाशनाः
कुहावभावनिरताः कुशीलास्स्मरविह्वलाः जारसंगरता नित्यं स्वस्वामिविमुखास्तथा
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः अविद्यापाठका नित्यं रोगग्रसितदेहकाः
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् परलोकेपीह लोके कथं सूत गतिर्भवेत्
इति चिंताकुलं चित्तं जायते सततं हि नः परोपकारसदृशो नास्ति धर्मो परः खलु
लघूपायेन येनैषां भवेत्सद्योघनाशनम् सर्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन्
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात्
वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् सर्वाघौघोद्धारकरं परत्र परमार्थदम्
कलिकल्मषविध्वंसि यस्मिञ्च्छिवयशः परम् विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम्
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम्
तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् यावच्छिवपुराणं हि नोदेष्यति जगत्यहो
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः यावच्छिवपुराणं हि नोदेष्यति जगत्यहो
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् यावच्छिवपुराणं हि नोदेष्यति जगत्यहो
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि यावच्छिवपुराणं हि नो देष्यति जगत्यहो
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः यावच्छिवपुराणं हि नोदेष्यति जगत्यहो
तावत्सर्वपुराणानि प्रगर्जंति महीतले यावच्छिवपुराणं हि नोदेष्यति जगत्यहो
तावत्सर्वाणि तीर्थानि विवदंति महीतले यावछिवपुराणं हि नोदेष्यति जगत्यहो
तावत्सर्वाणि मंत्राणि विवदंति महीतले यावच्छिवपुराणं हि नोदेष्यति महीतले