यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम्
उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले
प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः चतुर्दशमहाभागा मनूनां परिवृत्तयः
अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक्
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम किमिहास्ति फलं तस्मान्न पृथक् वक्तुमुत्सहे
य एव खलु कल्पेषु कल्पः संप्रति वर्तते तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश
स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः
मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः प्रायः समाभवंतीति तर्कः कार्यो विजानता
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते समुन्मूलितमूलेषु वृक्षेषु च वनेषु च
जगंति तृणवक्त्रीणि देवे दहति पावके वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम्
इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम्
आपो नारा इति प्रोक्ता आपो वै नरसूनवः अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः
शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः
स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा
ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः
नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् सविस्मय इवासीनः परां चिंतामुपागमत्
क्व सा भगवती या तु मनोज्ञा महती मही नानाविधमहाशैलनदीनगरकानना
एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् तदा सस्मार पितरं भगवंतं त्रिलोचनम्
स्मरणाद्देवदेवस्य भवस्यामिततेजसः ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः
ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत्
महापर्वतवर्ष्माणं महाजलदनिःस्वनम् नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम्
पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम्
पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम्
उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम्