एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः वायो रूपं ततस्तेजस्तेजसो रससंभवः
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम्
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा तदंडे सुप्रवृद्धो ऽभूत् क्षेत्रज्ञो ब्रह्मसंज्ञितः
स वै शरीरी प्रथमः स वै पुरुष उच्यते आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम्
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः
सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ
ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः
एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः
आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः गर्भोदकं समुद्राश्च जरायुश्चा ऽपि पर्वताः
तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् आपो दशगुणेनैव तेजसा बहिरावृताः
तेजो दशगुणेनैव वायुना बहिरावृतम् आकाशेनावृतो वायुः खं च भूतादिनावृतम्
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् एतैरावरणैरण्डं सप्तभिर्बहिरावृतम्
एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः
एवं परस्परोत्पन्ना धारयंति परस्परम् आधाराधेयभावेन विकारास्तु विकारिषु
कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते
गुणाः कालवशादेव भवंति विषमाः समाः गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम्
महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे
अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य