गुणसाम्ये तदा तस्मिन्नविभागे तमोदये शांतवातैकनीरे च न प्राज्ञायत किंचन
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ प्रविश्य क्षोभयामास मायायोगान्महेश्वरः
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात्
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम्
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः
कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः
एते परस्परोत्पन्ना धारयन्ति परस्परम् परस्परेण वर्धंते परस्परमनुव्रताः
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते
मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः यातुधाना भवंत्येव पिशाचाश्च न संशयः
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः सकलस्सकलाधारशक्तेरुत्पत्तिकारणम्
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः स एव च तदाधारस्तदात्मा तदधिष्ठितः
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम्
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत्
अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः वायो रूपं ततस्तेजस्तेजसो रससंभवः
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम्
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा तदंडे सुप्रवृद्धो ऽभूत् क्षेत्रज्ञो ब्रह्मसंज्ञितः
स वै शरीरी प्रथमः स वै पुरुष उच्यते आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम्