तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् अनादिनिधनश्चायं महदैश्वर्यसंयुतः
स एव जगतः कर्ता महादेवो महेश्वराः पाता हर्ता च सर्वस्य ततः पृथगनन्वयः
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः
यावदादिसमारंभो यावद्यः प्रलयो महान् तावदप्येति सकलं ब्रह्मणः शारदां शतम्
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः तत्पराख्यं तदर्धं च परार्धमभिधीयते
परार्धद्वयकालांते प्रलये समुपस्थिते अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम्
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये शांतवातैकनीरे च न प्राज्ञायत किंचन
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ प्रविश्य क्षोभयामास मायायोगान्महेश्वरः
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात्
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम्
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः
कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः
एते परस्परोत्पन्ना धारयन्ति परस्परम् परस्परेण वर्धंते परस्परमनुव्रताः
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते
मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः यातुधाना भवंत्येव पिशाचाश्च न संशयः
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः सकलस्सकलाधारशक्तेरुत्पत्तिकारणम्
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः स एव च तदाधारस्तदात्मा तदधिष्ठितः
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम्
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत्
अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च