वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः
तस्य वै दिवसे यांति चतुर्दश पुरंदराः शतानि मासे चत्वारि विंशत्या सहितानि च
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः
साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः अहर्न विद्यते तस्य न रात्रिरिति धारयेत्
एषोपचारः क्रियते लोकानां हितकाम्यया प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः
अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः
यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय
कथं जगदिदं कृत्स्नं विधाय च निधाय च आज्ञया परमां क्रीडां करोति परमेश्वरः
किं तत्प्रथमसंभूतं केनेदमखिलं ततम् केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः
शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् एवमुक्ता समासेन सृष्टिरीश्वरचोदिता
आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते
कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम्
महदादिविशेषांतं सृजतीत्यपि संमतम् किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम्
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् अनादिनिधनश्चायं महदैश्वर्यसंयुतः
स एव जगतः कर्ता महादेवो महेश्वराः पाता हर्ता च सर्वस्य ततः पृथगनन्वयः
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः
यावदादिसमारंभो यावद्यः प्रलयो महान् तावदप्येति सकलं ब्रह्मणः शारदां शतम्
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः तत्पराख्यं तदर्धं च परार्धमभिधीयते
परार्धद्वयकालांते प्रलये समुपस्थिते अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम्