न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः तादृशानां निमेषाणां काष्ठा दश च पञ्च च
काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते
त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः
ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम्
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते चत्वारि भारते वर्षे युगानि कवयो विदुः
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु एकापायेन वर्तंते सहस्राणि शतानि च
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् चतुर्युगसहस्रं यत्संकल्प इति कथ्यते
चतुर्युगैकसप्तत्या मनोरंतरमुच्यते कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः
एतेन क्रमयोगेन कल्पमन्वंतराणि च सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः
अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः
कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः
तस्य वै दिवसे यांति चतुर्दश पुरंदराः शतानि मासे चत्वारि विंशत्या सहितानि च
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः
साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः अहर्न विद्यते तस्य न रात्रिरिति धारयेत्
एषोपचारः क्रियते लोकानां हितकाम्यया प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः
अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः