तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम्
वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात्
नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा
यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः
अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति
कालादुत्पद्यते सर्वं कालदेव विपद्यते न कालनिरपेक्षं हि क्वचित्किंचन विद्यते
यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम्
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः
क एष भगवान् कालः कस्य वा वशवर्त्ययम् क एवास्य वशे न स्यात्कथयैतद्विचक्षण
कालकाष्ठानिमेषादिकलाकलितविग्रहम् कालात्मेति समाख्यातं तेजो माहेश्वरं परम्
यदलंघ्यमशेषस्य स्थावरस्य चरस्य च नियोगरूपमीशस्य बलं विश्वनियामकम्
तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः शिवस्य तु वशे कालो न कालस्य वशे शिवः
यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् महती तेन कालस्य मर्यादा हि दुरत्यया
कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति कालेन तु कृतं कर्म न कश्चिदतिवर्तते
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः
ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् न जयंत्यपि ते कालं कालो जयति तानपि
आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः
श्रिया रूपेण शीलेन बलेन च कुलेन च अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात्
अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः संयोजयति भूतानि वियोजयति चेश्वरः
यदैव दुःखितः कश्चित्तदैव सुखितः परः दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता
यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ये चानाथाः परान्नादाः कालस्तेषु समक्रियः
फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति
नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित्
कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः कालात्मानमतिक्रम्य कालातीतं स पश्यति