द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते विद्याविद्ये समाख्याते निहिते यत्र गूढवत्
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान्
दिश ऊर्ध्वमधस्तिर्यक् भासयन् भ्राजते स्वयम् यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम्
स्वभावमेके मन्यंते कालमेके विमोहिताः देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत्
येनेदमावृतं नित्यं कालकालात्मना यतः तेनेरितमिदं कर्म भूतैः सह विवर्तते
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः कालेनात्मगुणैश्चापि कृत्स्नमेव जगत् स्वयम्
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः
परस्त्रिकालादकलस्स एव परमेश्वरः सर्ववित् त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे
कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते धर्मावहं पापनुदं भोगेशं विश्वधाम च
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम्
न तस्य विद्येत कार्यं कारणं च न विद्यते न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम्
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता कारणं कारणानां च स तेषामधिपाधिपः
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः
स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः एको वशी निष्क्रियाणां बहूनां विवशात्मनाम्
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः एको बहूनां चाकामः कामानीशः प्रयच्छति
सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते
विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम्
अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः
तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति