तदास्य महिमानं च वीतशोकस्सुखी भवेत् छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः
स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते
घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते
एष एव परो देवो विश्वकर्मा महेश्वरः हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् केवलश्शिव एवैको यतः प्रज्ञा पुरातनी
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः
अजातमिममेवैके बुद्धा जन्मनि भीरवः रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम्
द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते विद्याविद्ये समाख्याते निहिते यत्र गूढवत्
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान्
दिश ऊर्ध्वमधस्तिर्यक् भासयन् भ्राजते स्वयम् यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम्
स्वभावमेके मन्यंते कालमेके विमोहिताः देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत्
येनेदमावृतं नित्यं कालकालात्मना यतः तेनेरितमिदं कर्म भूतैः सह विवर्तते
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः कालेनात्मगुणैश्चापि कृत्स्नमेव जगत् स्वयम्
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः
परस्त्रिकालादकलस्स एव परमेश्वरः सर्ववित् त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे
कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते धर्मावहं पापनुदं भोगेशं विश्वधाम च
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम्
न तस्य विद्येत कार्यं कारणं च न विद्यते न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम्
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता कारणं कारणानां च स तेषामधिपाधिपः