सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत्
अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम्
अणोरणीयान्महतो महीयानयमव्ययः गुहायां निहितश्चापि जंतोरस्य महेश्वरः
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् धातुः प्रसादादीशानं वीतशोकः प्रपश्यति
वेदाहमेनमजरं पुराणं सर्वगं विभुम् निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः
एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः
विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम्
जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति
वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति जुष्टमन्यं यदा पश्येदीशं परमकारणम्
तदास्य महिमानं च वीतशोकस्सुखी भवेत् छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः
स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते
घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते
एष एव परो देवो विश्वकर्मा महेश्वरः हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् केवलश्शिव एवैको यतः प्रज्ञा पुरातनी
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः
अजातमिममेवैके बुद्धा जन्मनि भीरवः रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम्
द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते विद्याविद्ये समाख्याते निहिते यत्र गूढवत्
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान्
दिश ऊर्ध्वमधस्तिर्यक् भासयन् भ्राजते स्वयम् यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम्
स्वभावमेके मन्यंते कालमेके विमोहिताः देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत्
येनेदमावृतं नित्यं कालकालात्मना यतः तेनेरितमिदं कर्म भूतैः सह विवर्तते
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै