श्रोतुमिच्छामि योगींद्र लिंगाविर्भावलक्षणम् शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम्
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः निष्कलस्तंभरूपेण स्वरूपं समदर्शयत्
ततः स्वलिंगचिह्नत्वात्स्तम्भतो निष्कलं शिवः स्वलिंगं दर्शयामास जगतां हितकाम्यया
तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम् सकलं च तथा बेरं शिवस्यैव प्रकल्पितम्
शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम्
पुरा कदाचिद्योगींद्र विष्णुर्विषधरासनः सुष्वाप परया भूत्या स्वानुगैरपि संवृतः
यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम्
कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम्
आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् द्रोहिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते
इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत् स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश
किमु ते व्याग्रवद्वक्त्रं विभाति विषमेक्षणम् वत्स विष्णो महामानमागतं कालवेगतः
पितामहश्च जगतः पाता च तव वत्सक मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत्
मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा
अहमेव बरो न त्वमहं प्रभुरहं प्रभुः परस्परं हंतुकामौ चक्रतुः समरोद्यमम्
युयुधाते ऽमरौ वीरौ हंसपक्षींद्रवाहनौ वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा
तावद्विमानगतयः सर्वा वै देवजातयः दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम्
क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि
मुमोच बाणानसहानस्त्रांश्च विविधान्बहून् मुमोचा ऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान्
बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम्
समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः
माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि
अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम्
सहस्रमुखमत्युग्रं चंडवातभयंकरम् अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम्
इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम् ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः
सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने
अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित्
इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम् जग्मुः कैलासशिखरं यत्रास्ते चंद्रशेखरः
दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम् प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि
तेपि तत्र सभामध्ये मंडपे मणिविष्टरे विराजमानमुमया ददृशुर्देवपुंगवम्