छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः
यथा काष्ठं च काष्ठं च समेयातां महोदधौ समेत्य च व्यपेयातां तद्वद्भूतसमागमः
स पश्यति शरीरं तच्छरीरं तन्न पश्यति तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः
ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम्
स एष बध्यते पाशैः सुखदुःखाशनः पशुः लीलासाधनभूतो य ईश्वरस्येति सूरयः
अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम्
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः अभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः पतिर्विश्वस्य निर्माता पशुपाशविमोचनः
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् अचेतनत्वादज्ञानादनयोः पशुपाशयोः
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् अयथाकरणज्ञानमंधस्य गमनं यथा
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते
पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः
भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् नातः परं विजानद्भिर्वेदितव्यं हि किंचनः
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः
एवमेव महात्मानमात्मन्यात्मविलक्षणम् सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति
य एको जालवानीश ईशानीभिस्स्वशक्तिभिः
एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः तथैव विश्वतोबाहुविश्वतः पादसंयुतः
द्यावाभूमी च जनयन् देव एको महेश्वरः स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः
वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम्
अस्मान्नास्ति परं किंचिदपरं परमात्मनः नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत्
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः
सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति