सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः मध्यमा तु गतिर्या सा राजसी परिपठ्यते
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च
प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् समासादेवमव्यक्तं सविकारमुदाहृतम्
तत्कारणदशापन्नमव्यक्तमिति कथ्यते व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत्
यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते
तस्मादव्यक्तमेवैक्यकारणं करणानि च शरीरं च तदाधारं तद्भोग्यं चापि नेतरत्
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते स्मृतेरनियतज्ञानादयावद्देहवेदनात्
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः अन्तर्यामीति वेदेषु वेदांतेषु च गीयते
सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः तथापि क्वापि केनापि व्यक्तमेष न दृश्यते
नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि
न च स्त्री न पुमानेष नैव चापि नपुंसकः नैवोर्ध्वं नापि तिर्यक् नाधस्तान्न कुतश्चन
अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात्
किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम्
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् अशुद्धमवशं दुःखमध्रुवं न च विद्यते
विपदां वीजभूतेन पुरुषस्तेन संयुतः सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा
अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा आज्ञानात्प्लावितं कर्म देहं जनयते तथा
अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः अनागता अतीताश्च तनवो ऽस्य सहस्रशः
आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः अत्यंतवसतिः क्वापि न केनापि च लभ्यते
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः
यथा काष्ठं च काष्ठं च समेयातां महोदधौ समेत्य च व्यपेयातां तद्वद्भूतसमागमः
स पश्यति शरीरं तच्छरीरं तन्न पश्यति तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः
ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम्
स एष बध्यते पाशैः सुखदुःखाशनः पशुः लीलासाधनभूतो य ईश्वरस्येति सूरयः
अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम्
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः अभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः