प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः
केयं माया समा ख्याता किंरूपो मायया वृतः मूलं कीदृक् कुतो वास्य किं शिवत्वं कुतश्शिवः
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः
आवृणोति कथं माया व्यापिनं केन हेतुना किमर्थं चावृतिः पुंसः केन वा विनिवर्तते
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात्
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम्
कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् मलक्षयस्य को हेतुः कीदृक् क्षीणमलः पुमान्
कला विद्या च रागश्च कालो नियतिरेव च कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत्
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् अनादिमलभोगान्तमज्ञानात्मसमाश्रयम्
भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते बाह्यांतःकरणद्वारं शरीरं भोगसाधनम्
भावातिशयलब्धेन प्रसादेन मलक्षयः क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत्
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते
किमात्मकं तदव्यक्तं केनाकारेण भुज्यते किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका
अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः
सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ
सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः मध्यमा तु गतिर्या सा राजसी परिपठ्यते
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च
प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् समासादेवमव्यक्तं सविकारमुदाहृतम्
तत्कारणदशापन्नमव्यक्तमिति कथ्यते व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत्
यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते
तस्मादव्यक्तमेवैक्यकारणं करणानि च शरीरं च तदाधारं तद्भोग्यं चापि नेतरत्
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते स्मृतेरनियतज्ञानादयावद्देहवेदनात्
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः अन्तर्यामीति वेदेषु वेदांतेषु च गीयते