तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना अस्मिन्देशे महाभाग तवागमनकांक्षिणः
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम्
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् दिव्यं कौमारमास्थाय रूपं रूपवतां वरः
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान्
ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः असृजत्सर्वभूतानि स्थावराणि चराणि च
यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ततस्तद्वदनादेव मया लब्धं तपोबलात्
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम्
अजडं च जडं चैव नियंतृ च तयोरपि पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात्
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् तयोश्च परमं किं वा तदेतद् ब्रूहि मारुत
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः
केयं माया समा ख्याता किंरूपो मायया वृतः मूलं कीदृक् कुतो वास्य किं शिवत्वं कुतश्शिवः
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः
आवृणोति कथं माया व्यापिनं केन हेतुना किमर्थं चावृतिः पुंसः केन वा विनिवर्तते
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात्
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम्
कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् मलक्षयस्य को हेतुः कीदृक् क्षीणमलः पुमान्
कला विद्या च रागश्च कालो नियतिरेव च कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत्