स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम्
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः अर्चयंतो महादेवं सत्रमारेभिरे तदा
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे पितामहनियोगेन वायुस्तत्रागमत्स्वयम्
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः
प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः सर्वभूतशरीराणां कुरुते यश्च धारणम्
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् चामीकरमयं तस्मै विष्टरं समकल्पयन्
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम्
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः
शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् सर्वस्मादधिको रुद्रो विप्राः परमकारणम्
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः यजध्वं दीर्घसत्रेण रुद्रं परमकारणम्
तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना अस्मिन्देशे महाभाग तवागमनकांक्षिणः
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम्
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् दिव्यं कौमारमास्थाय रूपं रूपवतां वरः
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः