तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति
स एव भवतः श्रेयः सोपायं कथयिष्यति ततो वाराणसी पुण्या पुरी परमशोभना
गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् सदा विहरति श्रीमान् भक्तानुग्रहकारणात्
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता अनेकजन्मसंसारबंधनिर्मोक्षकारिणी
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः
इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् प्रणिपत्य महादेवं विससर्ज पितामहः
ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत
चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले विमलस्वादुपानीये निजपात वने क्वचित्
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् अनेकयक्षगंधर्वविद्याधरसमाकुलम्
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः विलासवशमुर्वश्या यातो दैवेन चोदितः
अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम्
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः अर्चयंतो महादेवं सत्रमारेभिरे तदा
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे पितामहनियोगेन वायुस्तत्रागमत्स्वयम्
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः
प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः सर्वभूतशरीराणां कुरुते यश्च धारणम्
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् चामीकरमयं तस्मै विष्टरं समकल्पयन्