अस्य भूतानि वश्यानि अयं सर्वनियोजकः अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित्
व्रतानि सर्वदानानि तपांसि नियमास्तथा कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः
ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः यथा चांकुरतो बीजं बीजतो वा यथांकुरः
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः स एव साधनैरन्ते सर्वैरपि च साध्यते
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः
साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः धर्मातिशयमासाद्य पशोः पापपरिक्षयः
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः
ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ततो विषयवैराग्यं वैराग्याद्भावसाधनम्
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते
योगेन तु परा भक्तिः प्रसादस्तदनंतरम् प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत्
अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः
तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति
स एव भवतः श्रेयः सोपायं कथयिष्यति ततो वाराणसी पुण्या पुरी परमशोभना
गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् सदा विहरति श्रीमान् भक्तानुग्रहकारणात्
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता अनेकजन्मसंसारबंधनिर्मोक्षकारिणी