कारणानां च यो धाता ध्याता परमकारणम् न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम्
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति येनेदमखिलं पूर्णं पुरुषेण महात्मना
एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः य एको बहुधा बीजं करोति स महेश्वरः
य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन
सदा जनानां हृदये संनिविष्टो ऽपि यः परैः अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि अनन्तशक्तिरेवैको भगवानधितिष्ठति
न यस्य दिवसो रात्रिर्न समानो न चाधिकः स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् तावुभावक्षरात्मानावेको देवः स्वयं हरः
ईशते तदभिध्यानाद्योजनासत्त्वभावनः भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः
एको देवो महादेवो विज्ञेयस्तु महेश्वरः न तस्य परमं किंचित्पदं समधिगम्यते
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः अनन्तानन्तसन्दोहमकरंदमधुव्रतः
अखंडजगदंडानां पिंडीकरणपंडितः औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः
नैवास्य सदृशं वस्तु नाधिकं चापि किंचन अतुलः सर्वभूतानां राजराजश्च तिष्ठति
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते
अस्य भूतानि वश्यानि अयं सर्वनियोजकः अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित्
व्रतानि सर्वदानानि तपांसि नियमास्तथा कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः
ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः यथा चांकुरतो बीजं बीजतो वा यथांकुरः
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः स एव साधनैरन्ते सर्वैरपि च साध्यते
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः